Description
रस भाव योगास्तु भिन्न-भिन्नदर्शनेषु शास्त्रेषु च विविधतामावहन्ति । एतेषां वैविध्यं परीक्ष्य तेषां मौलिकतायाः उद्भावनमेव अस्य ग्रन्थस्य निकषमेव। नैते विषयाः शास्त्रमात्रस्य संकुचितपरिधौ भवितव्याः, अपितु निगूहितचिन्तनस्तरे स्थापनीयाः । रसानुभूते: सम्बन्ध भावैः सह वर्तते, भावाश्च चित्तवृत्तिरूपाः सन्ति। चित्तवृत्ति निरोधस्तु योगः। भावबोधाभावाच्च रसप्रतीते: अन्तर्दर्शनमपि असम्भवि। उद्रिक्तस्य भावव्यङ्ग्यस्य प्राधान्येन प्रतीतौ भावध्वनिः उररीक्रियते साहित्यकैः। स च भावध्वनिः रत्यादिस्थायिभावध्वनिः निर्वेदादि व्यभिचारि भावध्वनिर्वा उभयत्र भावस्यैव प्राधान्यम्। किं च सोऽयं भावः सद्य: चेतश्चमत्कारी अपि सम्प्रज्ञातसमाधौ योगिनः चित्तवृत्तिसमतुल्यतया तत्सामग्री परिस्पष्टः वैलक्षण्येन प्रतीयते आनन्दानुगतसम्प्रज्ञातसमाधिरेव चित्तस्य रसदशा वर्तते। चित्तवृतिरूपभावस्य व्यङ्ग्यत्वप्राधान्येन योगदशायामनुभूत ब्रह्मास्वादसहोदरानुभूति वर्तते । सा च आध्यात्मिकानुभूतेर्विलक्षणा इति प्रतिपादनमेव अस्य ग्रन्थस्य मूल प्रतिपाद्यो विषयः । क पण्डितराजकाव्यानां च वैशिष्ट्यानां नूतनतथ्यानां, रस-भावध्व नीनां निदर्शनं परिशीलनं च अस्य ग्रन्थस्य अपरं वैशिष्ट्यमिति ।





Reviews
There are no reviews yet.